Ayodhyakanda, Sarga 87, Verse 1
तया महत्या यायिन्या ध्वजिन्या वनवासिनः
अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
तया महत्या यायिन्या ध्वजिन्या वनवासिनः
अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः
ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततः
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च
स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः
वृतो महत्या नादिन्या सेनया चतुरङ्गया
सागरौघनिभा सेना भरतस्य महात्मनः
महीं संछादयामास प्रावृषि द्यामिवाम्बुदः
तुरंगौघैरवतता वारणैश्च महाजवैः
अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः
स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः
उवाच भरतः श्रीमान्वसिष्ठं मन्त्रिणां वरम्
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्
अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी
एतत्प्रकाशते दूरान्नीलमेघनिभं वनम्
गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु
नीला इवातपापाये तोयं तोयधरा घनाः
किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम्
हयैः समन्तादाकीर्णं मकरैरिव सागरम्
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः
वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे
कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्
अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम्
स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान्
एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने
एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान्
एतमाविशतः शैलमधिवासं पतत्रिणाम्
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा
तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा
मृगा मृगीभिः सहिता बहवः पृषता वने
मनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः
साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम्
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः
विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः
ते समालोक्य धूमाग्रमूचुर्भरतमागताः
नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ
अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ
अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः
तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम्
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च
एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत्
व्यवस्थिता या भरतेन सा चमू;र्निरीक्षमाणापि च धूममग्रतः
बभूव हृष्टा नचिरेण जानती; प्रियस्य रामस्य समागमं तदा