Ayodhyakanda, Sarga 85, Verse 1
कृतबुद्धिं निवासाय तथैव स मुनिस्तदा
भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत्
Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृतबुद्धिं निवासाय तथैव स मुनिस्तदा
भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत्
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम्
पाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते
अथोवाच भरद्वाजो भरतं प्रहसन्निव
जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केनचित्
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम्
मम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः
कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्
ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात्
वाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः
प्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम्
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा
न हिंस्युरिति तेनाहमेक एवागतस्ततः
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा
तथा तु चक्रे भरतः सेनायाः समुपागमम्
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत्
आह्वये विश्वकर्माणमहं त्वष्टारमेव च
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम्
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्
आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून्
तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम्
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः
सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः
वनं कुरुषु यद्दिव्यं वासो भूषणपत्रवत्
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैव तु
इह मे भगवान्सोमो विधत्तामन्नमुत्तमम्
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु
विचित्राणि च माल्यानि पादपप्रच्युतानि च
सुरादीनि च पेयानि मांसानि विविधानि च
एवं समाधिना युक्तस्तेजसाप्रतिमेन च
शिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक्
मलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः
ततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः
देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे
प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः
प्रजगुर्देवगन्धर्वा वीणा प्रमुमुचुः स्वरान्
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च
विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः
तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम्
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः
बभूव हि समा भूमिः समन्तात्पञ्चयोजनम्
शाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः
तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत्
आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम्
हर्म्यप्रासादसंघातास्तोरणानि शुभानि च
सितमेघनिभं चापि राजवेश्म सुतोरणम्
शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम्