Ayodhyakanda, Sarga 80, Verse 1
आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः
भरतायाप्रमेयाय गुहो गहनगोचरः
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः
भरतायाप्रमेयाय गुहो गहनगोचरः
तं जाग्रतं गुणैर्युक्तं वरचापेषुधारिणम्
भ्रातृ गुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम्
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता
प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन
उचितोऽयं जनः सर्वे दुःखानां त्वं सुखोचितः
धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्
न हि रामात्प्रियतरो ममास्ति भुवि कश्चन
मोत्सुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः
अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः
धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम्
सोऽहं प्रियसखं रामं शयानं सह सीतया
रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह
न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदा
चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना
अनुनीता वयं सर्वे धर्ममेवानुपश्यता
कथं दाशरथौ भूमौ शयाने सह सीतया
शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि
तं पश्य गुह संविष्टं तृणेषु सह सीतया
महता तपसा लब्धो विविधैश्च परिश्रमैः
एको दशरथस्यैष पुत्रः सदृशलक्षणः
अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः
निर्घोषोपरतं नूनमद्य राजनिवेशनम्
कौसल्या चैव राजा च तथैव जननी मम
नाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमाम्
जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया
दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति
सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्
हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम्
गजाश्वरथसंबाधां तूर्यनादविनादिताम्
सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम्
आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम्
सुखिता विचरिष्यन्ति राजधानीं पितुर्मम
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्
निवृत्ते समये ह्यस्मिन्सुखिताः प्रविशेमहि
परिदेवयमानस्य तस्यैवं सुमहात्मनः
तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ
अस्मिन्भागीरथीतीरे सुखं संतारितौ मया
जटाधरौ तौ द्रुमचीरवाससौ; महाबलौ कुञ्जरयूथपोपमौ
वरेषुचापासिधरौ परंतपौ; व्यवेक्षमाणौ सह सीतया गतौ