Ayodhyakanda, Sarga 79, Verse 1
एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्
ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे
यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि
इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम्
अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः
कतरेण गमिष्यामि भरद्वाजाश्रमं गुह
गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः
अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः
दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताः
अहं चानुगमिष्यामि राजपुत्र महायशः
कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः
इयं ते महती सेना शङ्कां जनयतीव मे
तमेवमभिभाषन्तमाकाश इव निर्मलः
भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत्
मा भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम
तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते
स तु संहृष्टवदनः श्रुत्वा भरतभाषितम्
पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः
धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले
अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि
शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति
यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि
एवं संभाषमाणस्य गुहस्य भरतं तदा
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत
संनिवेश्य स तां सेनां गुहेन परितोषितः
शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत्
रामचिन्तामयः शोको भरतस्य महात्मनः
उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः
अन्तर्दाहेन दहनः संतापयति राघवम्
वनदाहाभिसंतप्तं गूढोऽग्निरिव पादपम्
प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः
यथा सूर्यांशुसंतप्तो हिमवान्प्रस्रुतो हिमम्
ध्याननिर्दरशैलेन विनिःश्वसितधातुना
दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा
प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना
आक्रान्तो दुःखशैलेन महता कैकयीसुतः
गुहेन सार्धं भरतः समागतो; महानुभावः सजनः समाहितः
सुदुर्मनास्तं भरतं तदा पुन;र्गुहः समाश्वासयदग्रजं प्रति