Ayodhyakanda, Sarga 78, Verse 1
ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्
निषादराजो दृष्ट्वैव ज्ञातीन्संत्वरितोऽब्रवीत्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्
निषादराजो दृष्ट्वैव ज्ञातीन्संत्वरितोऽब्रवीत्
महतीयमतः सेना सागराभा प्रदृश्यते
नास्यान्तमवगच्छामि मनसापि विचिन्तयन्
स एष हि महाकायः कोविदारध्वजो रथे
बन्धयिष्यति वा दाशानथ वास्मान्वधिष्यति
अथ दाशरथिं रामं पित्रा राज्याद्विवासितम्
भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति
भर्ता चैव सखा चैव रामो दाशरथिर्मम
तस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत
तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम्
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः
नावां शतानां पञ्चानां कैवर्तानां शतं शतम्
संनद्धानां तथा यूनां तिष्ठन्त्वत्यभ्यचोदयत्
यदा तुष्टस्तु भरतो रामस्येह भविष्यति
सेयं स्वस्तिमयी सेना गङ्गामद्य तरिष्यति
इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च
अभिचक्राम भरतं निषादाधिपतिर्गुहः
तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान्
भरतायाचचक्षेऽथ विनयज्ञो विनीतवत्
एष ज्ञातिसहस्रेण स्थपतिः परिवारितः
कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा
तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ
एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम्
उवाच वचनं शीघ्रं गुहः पश्यतु मामिति
लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः
आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत्
निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्
निवेदयामस्ते सर्वे स्वके दाशकुले वस
अस्ति मूलं फलं चैव निषादैः समुपाहृतम्
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत्
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्
अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि