Ayodhyakanda, Sarga 75, Verse 1
ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः
तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः
तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः
सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः
दध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान्
स तूर्य घोषः सुमहान्दिवमापूरयन्निव
भरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत्
ततो प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च
नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत्
पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत्
विसृज्य मयि दुःखानि राजा दशरथो गतः
तस्यैषा धर्मराजस्य धर्ममूला महात्मनः
परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले
इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम्
कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा
तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित्
सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः
शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम्
सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत
स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम्
अध्यास्त सर्ववेदज्ञो दूताननुशशास च
ब्राह्मणान्क्षत्रियान्योधानमात्यान्गणबल्लभान्
क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः
ततो हलहलाशब्दो महान्समुदपद्यत
रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्
ततो भरतमायान्तं शतक्रतुमिवामराः
प्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा
ह्रद इव तिमिनागसंवृतः; स्तिमितजलो मणिशङ्खशर्करः
दशरथसुतशोभिता सभा; सदशरथेव बभौ यथा पुरा