Ayodhyakanda, Sarga 70, Verse 1
तमेवं शोकसंतप्तं भरतं केकयीसुतम्
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमेवं शोकसंतप्तं भरतं केकयीसुतम्
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः
अलं शोकेन भद्रं ते राजपुत्र महायशः
प्राप्तकालं नरपतेः कुरु संयानमुत्तरम्
वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित्
उद्धृतं तैलसंक्लेदात्स तु भूमौ निवेशितम्
आपीतवर्णवदनं प्रसुप्तमिव भूमिपम्
निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते
ततो दशरथं पुत्रो विललाप सुदुःखितः
किं ते व्यवसितं राजन्प्रोषिते मय्यनागते
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा
योगक्षेमं तु ते राजन्कोऽस्मिन्कल्पयिता पुरे
त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते
विधवा पृथिवी राजंस्त्वया हीना न राजते
हीनचन्द्रेव रजनी नगरी प्रतिभाति माम्
एवं विलपमानं तं भरतं दीनमानसम्
अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः
प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः
तान्यव्यग्रं महाबाहो क्रियतामविचारितम्
तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्
ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः
ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः
ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि
शिबिलायामथारोप्य राजानं गतचेतनम्
बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः
हिरण्यं च सुवर्णं च वासांसि विविधानि च
प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः
चन्दनागुरुनिर्यासान्सरलं पद्मकं तथा
देवदारूणि चाहृत्य चितां चक्रुस्तथापरे
गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम्
ततः संवेशयामासुश्चितामध्ये तमृत्विजः
तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः
जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः
शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः
नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा
प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम्
स्त्रियश्च शोकसंतप्ताः कौसल्या प्रमुखास्तदा
क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः
ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः
यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः
कृतोदकं ते भरतेन सार्धं; नृपाङ्गना मन्त्रिपुरोहिताश्च
पुरं प्रविश्याश्रुपरीतनेत्रा; भूमौ दशाहं व्यनयन्त दुःखम्