Ayodhyakanda, Sarga 69, Verse 1
तथैव क्रोशतस्तस्य भरतस्य महात्मनः
कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथैव क्रोशतस्तस्य भरतस्य महात्मनः
कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्
आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः
तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्
एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा
प्रतस्थे भरतो यत्र वेपमाना विचेतना
स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा
प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्
ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ
पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम्
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्
संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी
क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति
हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः
अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम्
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः
कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि
यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः
इदं हि तव विस्तीर्णं धनधान्यसमाचितम्
हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया
एवं विलपमानां तां भरतः प्राञ्जलिस्तदा
कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्
आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम्
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे
कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन
सत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः
प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु
हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः
कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः
परिपालयमानस्य राज्ञो भूतानि पुत्रवत्
ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः
संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः
हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले
मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता
स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः
गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः
पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्
उभे संध्ये शयानस्य यत्पापं परिकल्प्यते
तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः
यदग्निदायके पापं यत्पापं गुरुतल्पगे
मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्
देवतानां पितॄणां च माता पित्रोस्तथैव च
मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः
सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा
भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः
एवमाश्वसयन्नेव दुःखार्तो निपपात ह
तथा तु शपथैः कष्टैः शपमानमचेतनम्
भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत्