Ayodhyakanda, Sarga 67, Verse 1
श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ
भरतो दुःखसंतप्त इदं वचनमब्रवीत्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ
भरतो दुःखसंतप्त इदं वचनमब्रवीत्
किं नुण्कार्यं हतस्येह मम राज्येन शोचतः
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च
दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम्
कुलस्य त्वमभावाय कालरात्रिरिवागता
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम
ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम्
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी
त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते
तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम्
प्रस्थाप्य वनवासाय कथं पापे न शोचसि
अपापदर्शिनं शूरं कृतात्मानं यशस्विनम्
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्
लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति
तथा ह्यनर्थो राज्यार्थं त्वया नीतो महानयम्
अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे
तं हि नित्यं महाराजो बलवन्तं महाबलः
अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा
सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम्
दम्यो धुरमिवासाद्य सहेयं केन चौजसा
अथ वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा
सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम्
निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्
इत्येवमुक्त्वा भरतो महात्मा; प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्
शोकातुरश्चापि ननाद भूयः; सिंहो यथा पर्वतगह्वरस्थः