Ayodhyakanda, Sarga 64, Verse 1
भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः
प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः
प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम्
समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः
राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः
पुरोहितस्त्वा कुशलं प्राह सर्वे च मन्त्रिणः
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया
अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते
दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज
प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने
दूतानुवाच भरतः कामैः संप्रतिपूज्य तान्
कच्चित्सुकुशली राजा पिता दशरथो मम
कच्चिच्चारागता रामे लक्ष्मणे वा महात्मनि
आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी
अरोगा चापि कौसल्या माता रामस्य धीमतः
कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या
शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी
अरोगा चापि कैकेयी माता मे किमुवाच ह
एवमुक्तास्तु ते दूता भरतेन महात्मना
ऊचुः संप्रश्रितं वाक्यमिदं तं भरतं तदा
कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि
भरतश्चापि तान्दूतानेवमुक्तोऽभ्यभाषत
आपृच्छेऽहं महाराजं दूताः संत्वरयन्ति माम्
एवमुक्त्वा तु तान्दूतान्भरतः पार्थिवात्मजः
दूतैः संचोदितो वाक्यं मातामहमुवाच ह
राजन्पितुर्गमिष्यामि सकाशं दूतचोदितः
पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि
भरतेनैवमुक्तस्तु नृपो मातामहस्तदा
तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम्
गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया
मातरं कुशलं ब्रूयाः पितरं च परंतप
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः
तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ
तस्मै हस्त्युत्तमांश्चित्रान्कम्बलानजिनानि च
अभिसत्कृत्य कैकेयो भरताय धनं ददौ
रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च
सत्कृत्य कैकेयी पुत्रं केकयो धनमादिशत्
तथामात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान्
ददावश्वपतिः शीघ्रं भरतायानुयायिनः
ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान्
खराञ्शीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ
अन्तःपुरेऽतिसंवृद्धान्व्याघ्रवीर्यबलान्वितान्
दंष्ट्रायुधान्महाकायाञ्शुनश्चोपायनं ददौ
स मातामहमापृच्छ्य मातुलं च युधाजितम्
रथमारुह्य भरतः शत्रुघ्नसहितो ययौ
रथान्मण्डलचक्रांश्च योजयित्वा परःशतम्
उष्ट्रगोश्वखरैर्भृत्या भरतं यान्तमन्वयुः
बलेन गुप्तो भरतो महात्मा; सहार्यकस्यात्मसमैरमात्यैः
आदाय शत्रुघ्नमपेतशत्रु;र्गृहाद्ययौ सिद्ध इवेन्द्रलोकात्