Ayodhyakanda, Sarga 62, Verse 1
तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह
मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह
मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः
यदसौ मातुलकुले पुरे राजगृहे सुखी
भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः
तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः
आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्
गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन्
तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्
एहि सिद्धार्थ विजय जयन्ताशोकनन्दन
श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः
पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः
त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया
मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्
भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम्
कौशेयानि च वस्त्राणि भूषणानि वराणि च
क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत
वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः
ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः
पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम्
ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्
उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम्
निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्
अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम्
अभिकालं ततः प्राप्य तेजोभिभवनाच्च्युताः
ययुर्मध्येन बाह्लीकान्सुदामानं च पर्वतम्
विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम्
ते श्रान्तवाहना दूता विकृष्टेन सता पथा
गिरि व्रजं पुर वरं शीघ्रमासेदुरञ्जसा
भर्तुः प्रियार्थं कुलरक्षणार्थं; भर्तुश्च वंशस्य परिग्रहार्थम्
अहेडमानास्त्वरया स्म दूता; रात्र्यां तु ते तत्पुरमेव याताः