Ayodhyakanda, Sarga 59, Verse 1
अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि
बन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम्
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि
बन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम्
ततः शुचिसमाचाराः पर्युपस्थान कोविदः
स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम्
हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः
आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि
मङ्गलालम्भनीयानि प्राशनीयानुपस्करान्
उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः
अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्
ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः
प्रतिस्रोतस्तृणाग्राणां सदृशं संचकम्पिरे
अथ संवेपमनानां स्त्रीणां दृष्ट्वा च पार्थिवम्
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः
ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः
करेणव इवारण्ये स्थानप्रच्युतयूथपाः
तासामाक्रन्द शब्देन सहसोद्गतचेतने
कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम्
हा नाथेति परिक्रुश्य पेततुर्धरणीतले
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले
न बभ्राज रजोध्वस्ता तारेव गगनच्युता
तत्समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम्
सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्
सद्यो निपतितानन्दं दीनविक्लवदर्शनम्
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः
अतीतमाज्ञाय तु पार्थिवर्षभं; यशस्विनं संपरिवार्य पत्नयः
भृशं रुदन्त्यः करुणं सुदुःखिताः; प्रगृह्य बाहू व्यलपन्ननाथवत्