Ayodhyakanda, Sarga 58, Verse 1
तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः
एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः
एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्
ततस्तं घटमादय पूर्णं परमवारिणा
आश्रमं तमहं प्राप्य यथाख्यातपथं गतः
तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ
तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ
तामाशां मत्कृते हीनावुदासीनावनाथवत्
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत
किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय
यन्निमित्तमिदं तात सलिले क्रीडितं त्वया
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्
यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया
न तन्मनसि कर्तव्यं त्वया तात तपस्विना
त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम्
समासक्तास्त्वयि प्राणाः किंचिन्नौ नाभिभाषसे
मुनिमव्यक्तया वाचा तमहं सज्जमानया
हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम्
मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम्
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्
क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः
सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्
भगवंश्चापहस्तोऽहं सरयूतीरमागतः
जिघांसुः श्वापदं किंचिन्निपाने वागतं गजम्
तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः
द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया
गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्
भगवञ्शब्दमालक्ष्य मया गजजिघांसुना
विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः
स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः
भगवन्तावुभौ शोचन्नन्धाविति विलप्य च
अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया
शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः
स तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्
यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम्
फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा
क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः
ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्
अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि
अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान्
नय नौ नृप तं देशमिति मां चाभ्यभाषत
अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्
रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससम्
शयानं भुवि निःसंज्ञं धर्मराजवशं गतम्
अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ
अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया
तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ
निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत्
न न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक
किं नु नालिङ्गसे पुत्र सुकुमार वचो वद
कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम्
अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः
को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनः
श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम्
कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्
भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्
इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्
कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम्