Ayodhyakanda, Sarga 56, Verse 1
एवं तु क्रुद्धया राजा राममात्रा सशोकया
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं तु क्रुद्धया राजा राममात्रा सशोकया
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः
तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम्
यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना
अमनास्तेन शोकेन रामशोकेन च प्रभुः
दह्यमानस्तु शोकाभ्यां कौसल्यामाह भूपतिः
प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर
नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम्
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम्
स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्
संभ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः
प्रसीद शिरसा याचे भूमौ निततितास्मि ते
याचितास्मि हता देव हन्तव्याहं न हि त्वया
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता
उभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्
पुत्रशोकार्तया तत्तु मया किमपि भाषितम्
शोको नाशयते धैर्यं शोको नाशयते श्रुतम्
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः
शयमापतितः सोढुं प्रहरो रिपुहस्ततः
सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम
तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते
अदीनामिव वेगेन समुद्रसलिलं महत्
एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः
मन्दरश्मिरभूत्सुर्यो रजनी चाभ्यवर्तत
अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपः
शोकेन च समाक्रान्तो निद्राया वशमेयिवान्