Ayodhyakanda, Sarga 55, Verse 1
वनं गते धर्मपरे रामे रमयतां वरे
कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
वनं गते धर्मपरे रामे रमयतां वरे
कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्
यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः
सानुक्रोशो वदान्यश्च प्रियवादी च राघवः
कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता
कथमुष्णं च शीतं च मैथिली प्रसहिष्यते
भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्
वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते
गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता
कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्
महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः
भुजं परिघसंकाशमुपधाय महाबलः
पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम्
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्
वज्रसारमयं नूनं हृदयं मे न संशयः
अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति
जह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते
भ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते
न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति
एवमेव नरव्याघ्रः परलीढं न मंस्यते
हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः
नैतानि यातयामानि कुर्वन्ति पुनरध्वरे
तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव
नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्
नैवंविधमसत्कारं राघवो मर्षयिष्यति
बलवानिव शार्दूलो बालधेरभिमर्शनम्
स तादृशः सिंहबलो वृषभाक्षो नरर्षभः
स्वयमेव हतः पित्रा जलजेनात्मजो यथा
द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः
यदि ते धर्मनिरते त्वया पुत्रे विवासिते
गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः
तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते
तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः
न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया
हतं त्वया राज्यमिदं सराष्ट्रं; हतस्तथात्मा सह मन्त्रिभिश्च
हता सपुत्रास्मि हताश्च पौराः; सुतश्च भार्या च तव प्रहृष्टौ
इमां गिरं दारुणशब्दसंश्रितां; निशम्य राजापि मुमोह दुःखितः
ततः स शोकं प्रविवेश पार्थिवः; स्वदुष्कृतं चापि पुनस्तदास्मरत्