Ayodhyakanda, Sarga 54, Verse 1
ततो भूतोपसृष्टेव वेपमाना पुनः पुनः
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो भूतोपसृष्टेव वेपमाना पुनः पुनः
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः
तान्विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम्
निवर्तय रथं शीघ्रं दण्डकान्नय मामपि
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्
बाष्पवेगौपहतया स वाचा सज्जमानया
इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत्
त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा
व्यवधूय च संतापं वने वत्स्यति राघवः
लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव
विस्रम्भं लभतेऽभीता रामे संन्यस्तमानसा
नास्या दैन्यं कृतं किंचित्सुसूक्ष्ममपि लक्षये
उचितेव प्रवासानां वैदेही प्रतिभाति मा
नगरोपवनं गत्वा यथा स्म रमते पुरा
तथैव रमते सीता निर्जनेषु वनेष्वपि
बालेव रमते सीता बालचन्द्रनिभानना
रामा रामे ह्यदीनात्मा विजनेऽपि वने सती
तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम्
अयोध्यापि भवेत्तस्या रामहीना तथा वनम्
पथि पृच्छति वैदेही ग्रामांश्च नगराणि च
गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि
अध्वना वातवेगेन संभ्रमेणातपेन च
न हि गच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्
वदनं तद्वदान्याया वैदेह्या न विकम्पते
अलक्तरसरक्ताभावलक्तरसवर्जितौ
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ
नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी
इदानीमपि वैदेही तद्रागा न्यस्तभूषणा
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता
नाहारयति संत्रासं बाहू रामस्य संश्रिता
न शोच्यास्ते न चात्मा ते शोच्यो नापि जनाधिपः
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्
विधूय शोकं परिहृष्टमानसा; महर्षियाते पथि सुव्यवस्थिताः
वने रता वन्यफलाशनाः पितुः; शुभां प्रतिज्ञां परिपालयन्ति ते
तथापि सूतेन सुयुक्तवादिना; निवार्यमाणा सुतशोककर्शिता
न चैव देवी विरराम कूजिता;त्प्रियेति पुत्रेति च राघवेति च