Ayodhyakanda, Sarga 53, Verse 1
मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि
उष्णमश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि
उष्णमश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम्
उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमज्ञलिम्
प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन्
गुहेव सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून्
आशया यदि मां रामः पुनः शब्दापयेदिति
विषये ते महाराज रामव्यसनकर्शिताः
अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः
न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च
रामशोकाभिभूतं तन्निष्कूजमभवद्वनम्
लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः
संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः
जलजानि च पुष्पाणि माल्यानि स्थलजानि च
नाद्य भान्त्यल्पगन्धीनि फलानि च यथा पुरम्
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति
नरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः
हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम्
हाहाकारकृता नार्यो रामादर्शनकर्शिताः
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः
अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः
नामित्राणां न मित्राणामुदासीनजनस्य च
अहमार्ततया कंचिद्विशेषं नोपलक्षये
अप्रहृष्टमनुष्या च दीननागतुरंगमा
आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना
निरानन्दा महाराज रामप्रव्राजनातुरा
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा
सूतस्य वचनं श्रुत्वा वाचा परमदीनया
बाष्पोपहतया राजा तं सूतमिदमब्रवीत्
कैकेय्या विनियुक्तेन पापाभिजनभावया
मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम्
न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः
मयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः
भवितव्यतया नूनमिदं वा व्यसनं महत्
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया
सूत यद्यस्ति ते किंचिन्मयापि सुकृतं कृतम्
त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम्
यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम्
न शक्ष्यामि विना राम मुहूर्तमपि जीवितुम्
अथ वापि महाबाहुर्गतो दूरं भविष्यति
मामेव रथमारोप्य शीघ्रं रामाय दर्शय
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः
यदि जीवामि साध्वेनं पश्येयं सह सीतया
लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्
रामं यदि न पश्यामि गमिष्यामि यमक्षयम्
अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम्
इमामवस्थामापन्नो नेह पश्यामि राघवम्
हा राम रामानुज हा हा वैदेहि तपस्विनी
न मां जानीत दुःखेन म्रियमाणमनाथवत्
दुस्तरो जीवता देवि मयायं शोकसागरः
अशोभनं योऽहमिहाद्य राघवं; दिदृक्षमाणो न लभे सलक्ष्मणम्
इतीव राजा विलपन्महायशाः; पपात तूर्णं शयने स मूर्छितः
इति विलपति पार्थिवे प्रनष्टे; करुणतरं द्विगुणं च रामहेतोः
वचनमनुनिशम्य तस्य देवी; भयमगमत्पुनरेव राममाता