Ayodhyakanda, Sarga 50, Verse 1
अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्
प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्
प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः
सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम्
संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः
जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्
तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्
पन्थानमृषिणोद्दिष्टं चित्रकूटस्य तं ययुः
ततः संप्रस्थितः काले रामः सौमित्रिणा सह
सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्
आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्
स्वैः पुष्पैः किंशुकान्पश्य मालिनः शिशिरात्यये
पश्य भल्लातकान्फुल्लान्नरैरनुपसेवितान्
फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम्
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण
मधूनि मधुकारीभिः संभृतानि नगे नगे
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति
रमणीये वनोद्देशे पुष्पसंस्तरसंकटे
मातंगयूथानुसृतं पक्षिसंघानुनादितम्
चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम्
ततस्तौ पादचारेण गच्छन्तौ सह सीतया
रम्यमासेदतुः शैलं चित्रकूटं मनोरमम्
तं तु पर्वतमासाद्य नानापक्षिगणायुतम्
अयं वासो भवेत्तावदत्र सौम्य रमेमहि
लक्ष्मणानय दारूणि दृढानि च वराणि च
कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान्द्रुमान्
आजहार ततश्चक्रे पर्ण शालामरिं दम
शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान्
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्
लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत्
अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा
देवता देवसंकाश यजस्व कुशलो ह्यसि
रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः
पापसंशमनं रामश्चकार बलिमुत्तमम्
तां वृक्षपर्णच्छदनां मनोज्ञां; यथाप्रदेशं सुकृतां निवाताम्
वासाय सर्वे विविशुः समेताः; सभां यथा देव गणाः सुधर्माम्
अनेकनानामृगपक्षिसंकुले; विचित्रपुष्पस्तबलैर्द्रुमैर्युते
वनोत्तमे व्यालमृगानुनादिते; तथा विजह्रुः सुसुखं जितेन्द्रियाः
सुरम्यमासाद्य तु चित्रकूटं; नदीं च तां माल्यवतीं सुतीर्थाम्
ननन्द हृष्टो मृगपक्षिजुष्टां; जहौ च दुःखं पुरविप्रवासात्