Ayodhyakanda, Sarga 49, Verse 1
उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति
प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात्
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम्
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्
विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्
पलाशबदरीमिश्रं राम वंशैश्च यामुनैः
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया
रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः
इति पन्थानमावेद्य महर्षिः स न्यवर्तत
उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत्
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ
सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्
तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम्
चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसम्
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्
ईषत्संलज्जमानां तामध्यारोपयत प्लवम्
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्
तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम्
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात्
श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम्
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम्
इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम्
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ
बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने
विहृत्य ते बर्हिणपूगनादिते; शुभे वने वारणवानरायुते
समं नदीवप्रमुपेत्य संमतं; निवासमाजग्मुरदीनदर्शनः