Ayodhyakanda, Sarga 48, Verse 1
ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम्
विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम्
विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे
यत्र भागीरथी गङ्गा यमुनामभिवर्तते
जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्
ते भूमिमागान्विविधान्देशांश्चापि मनोरमान्
अदृष्टपूर्वान्पश्यन्तस्तत्र तत्र यशस्विनः
यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्द्रुमान्
निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्
प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्
अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः
नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम्
तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः
दारूणि परिभिन्नानि वनजैरुपजीविभिः
भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः
धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे
गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः
रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः
गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत्
ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ
सीतयानुगतौ वीरौ दूरादेवावतस्थतुः
हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः
रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्
न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः
पुत्रौ दशरथस्यावां भगवन्रामलक्ष्मणौ
भार्या ममेयं वैदेही कल्याणी जनकात्मजा
मां चानुयाता विजनं तपोवनमनिन्दिता
पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः
अयमन्वगमद्भ्राता वनमेव दृढव्रतः
पित्रा नियुक्ता भगवन्प्रवेष्यामस्तपोवनम्
धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः
उपानयत धर्मात्मा गामर्घ्यमुदकं ततः
मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः
राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः
प्रतिगृह्य च तामर्चामुपविष्टं सराघवम्
भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा
चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम्
श्रुतं तव मया चेदं विवासनमकारणम्
अवकाशो विविक्तोऽयं महानद्योः समागमे
पुण्यश्च रमणीयश्च वसत्विह भगान्सुखम्
एवमुक्तस्तु वचनं भरद्वाजेन राघवः
प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः
भगवन्नित आसन्नः पौरजानपदो जनः
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः
अनेन कारणेनाहमिह वासं न रोचये
एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्
रमते यत्र वैदेही सुखार्हा जनकात्मजा
एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः
राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत्
दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि
महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः
गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः
चित्रकूट इति ख्यातो गन्धमादनसंनिभः
यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते
कल्याणानि समाधत्ते न पापे कुरुते मनः
ऋषयस्तत्र बहवो विहृत्य शरदां शतम्
तपसा दिवमारूढाः कपालशिरसा सह
प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्
इह वा वनवासाय वस राम मया सह
स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्
सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित्