Ayodhyakanda, Sarga 47, Verse 1
स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम्
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम्
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्
अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः
या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि
जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु
योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः
रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे
उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः
स तु संविश्य मेदिन्यां महार्हशयनोचितः
इमाः सौमित्रये रामो व्याजहार कथाः शुभाः
ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण
कृतकामा तु कैकेयी तुष्टा भवितुमर्हति
सा हि देवी महाराजं कैकेयी राज्यकारणात्
अपि न च्यावयेत्प्राणान्दृष्ट्वा भरतमागतम्
अनाथश्चैव वृद्धश्च मया चैव विनाकृतः
किं करिष्यति कामात्मा कैकेय्या वशमागतः
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्
काम एवार्धधर्माभ्यां गरीयानिति मे मतिः
को ह्यविद्वानपि पुमान्प्रमदायाः कृते त्यजेत्
छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण
सुखी बत सभार्यश्च भरतः केकयीसुतः
मुदितान्कोसलानेको यो भोक्ष्यत्यधिराजवत्
स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति
ताते च वयसातीते मयि चारण्यमाश्रिते
अर्थधर्मौ परित्यज्य यः काममनुवर्तते
एवमापद्यते क्षिप्रं राजा दशरथो यथा
मन्ये दशरथान्ताय मम प्रव्राजनाय च
कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च
अपीदानीं न कैकेयी सौभाग्यमदमोहिता
कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते
मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्
अयोध्यामित एव त्वं काले प्रविश लक्ष्मण
अहमेको गमिष्यामि सीतया सह दण्डकान्
अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि
क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत्
परिदद्या हि धर्मज्ञे भरते मम मातरम्
नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर्वियोजिताः
जनन्या मम सौमित्रे तदप्येतदुपस्थितम्
मया हि चिरपुष्टेन दुःखसंवर्धितेन च
विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम्
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्
सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्
मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका
यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश
शोचन्त्याश्चाल्पभाग्याया न किंचिदुपकुर्वता
पुर्त्रेण किमपुत्राया मया कार्यमरिंदम
अल्पभाग्या हि मे माता कौसल्या रहिता मया
शेते परमदुःखार्ता पतिता शोकसागरे
एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण
तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्
अधर्मभय भीतश्च परलोकस्य चानघ
तेन लक्ष्मण नाद्याहमात्मानमभिषेचये
एतदन्यच्च करुणं विलप्य विजने बहु
अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्
विलप्योपरतं रामं गतार्चिषमिवानलम्
समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः
ध्रुवमद्य पुरी राम अयोध्या युधिनां वर
निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी
नैतदौपयिकं राम यदिदं परितप्यसे
विषादयसि सीतां च मां चैव पुरुषर्षभ