Ayodhyakanda, Sarga 46, Verse 1
प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्
Containing 79 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्
भास्करोदयकालोऽयं गता भगवती निशा
असौ सुकृष्णो विहगः कोकिलस्तात कूजति
बर्हिणानां च निर्घोषः श्रूयते नदतां वने
तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम्
विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः
गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः
ततः कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ
जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ
राममेव तु धर्मज्ञमुपगम्य विनीतवत्
किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्
निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम
यानं विहाय पद्भ्यां तु गमिष्यामो महावनम्
आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः
सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्
नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्
तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने
न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः
मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्
सह राघव वैदेह्या भ्रात्रा चैव वने वसन्
त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव
वयं खलु हता राम ये तयाप्युपवञ्चिताः
कैकेय्या वशमेष्यामः पापाया दुःखभागिनः
इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा
दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम्
ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्
रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये
यथा दशरथो राजा मां न शोचेत्तथा कुरु
शोकोपहत चेताश्च वृद्धश्च जगतीपतिः
काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते
यद्यदाज्ञापयेत्किंचित्स महात्मा महीपतिः
कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः
यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते
तद्यथा स महाराजो नालीकमधिगच्छति
न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा
अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्
ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः
नैवाहमनुशोचामि लक्ष्मणो न च मैथिली
अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा
चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान्
एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे
अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः
आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्
सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च
ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय
आगतश्चापि भरतः स्थाप्यो नृपमते पदे
भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च
अस्मत्संतापजं दुःखं न त्वामभिभविष्यति
भरतश्चापि वक्तव्यो यथा राजनि वर्तसे
तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः
यथा च तव कैकेयी सुमित्रा चाविशेषतः
तथैव देवी कौसल्या मम माता विशेषतः
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः
तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत्
यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः
भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि