Valmiki Ramayana

Ayodhyakanda, Sarga 44

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 1

विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः

आससाद महाबाहुः शृङ्गवेरपुरं प्रति

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 2

तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम्

ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम्

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 3

हंससारससंघुष्टां चक्रवाकोपकूजिताम्

शिंशुमरैश्च नक्रैश्च भुजंगैश्च निषेविताम्

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 4

तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः

सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 5

अविदूरादयं नद्या बहुपुष्पप्रवालवान्

सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 6

लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम्

उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 7

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः

रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 8

सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान्

वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 9

तत्र राजा गुहो नाम रामस्यात्मसमः सखा

निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 10

स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम्

वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 11

ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम्

सह सौमित्रिणा रामः समागच्छद्गुहेन सः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 12

तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत्

यथायोध्या तथेदं ते राम किं करवाणि ते

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 13

ततो गुणवदन्नाद्यमुपादाय पृथग्विधम्

अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 14

स्वागतं ते महाबाहो तवेयमखिला मही

वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 15

भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम्

शयनानि च मुख्यानि वाजिनां खादनं च ते

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 16

गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह

अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम्

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 17

पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च

भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत्

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 18

दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः

अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 19

यत्त्विदं भवता किंचित्प्रीत्या समुपकल्पितम्

सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 20

कुशचीराजिनधरं फलमूलाशनं च माम्

विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 21

अश्वानां खादनेनाहमर्थी नान्येन केनचित्

एतावतात्रभवता भविष्यामि सुपूजितः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 22

एते हि दयिता राज्ञः पितुर्दशरथस्य मे

एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 23

अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात्

गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 24

ततश्चीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम्

जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 25

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः

सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 26

गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्

अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः

Valmiki Ramayana

Ayodhyakanda, Sarga 44, Verse 27

तथा शयानस्य ततोऽस्य धीमतो; यशस्विनो दाशरथेर्महात्मनः

अदृष्टदुःखस्य सुखोचितस्य सा; तदा व्यतीयाय चिरेण शर्वरी