Ayodhyakanda, Sarga 43, Verse 1
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्
जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा
उपास्य स शिवां संध्यां विषयान्तं व्यगाहत
ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च
पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः
शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम्
राजानं धिग्दशरथं कामस्य वशमागतम्
हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी
तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्
वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम्
एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्
शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः
ततो वेदश्रुतिं नाम शिववारिवहां नदीम्
उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्
गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्
गोमतीं गोयुतानूपामतरत्सागरंगमाम्
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः
मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा
स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः
हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः
कदाहं पुनरागम्य सरय्वाः पुष्पिते वने
मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने
रतिर्ह्येषातुला लोके राजर्षिगणसंमता
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा
तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन्