Ayodhyakanda, Sarga 42, Verse 1
अनुगम्य निवृत्तानां रामं नगरवासिनाम्
उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनुगम्य निवृत्तानां रामं नगरवासिनाम्
उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम्
स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः
न चाहृष्यन्न चामोदन्वणिजो न प्रसारयन्
न चाशोभन्त पण्यानि नापचन्गृहमेधिनः
नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम्
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत
गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम्
व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान्
किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा
पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम्
एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया
योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने
आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि
शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः
आपगाश्च महानूपाः सानुमन्तश्च पर्वताः
काननं वापि शैलं वा यं रामोऽभिगमिष्यति
प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्
विचित्रकुसुमापीडा बहुमञ्जरिधारिणः
अकाले चापि मुख्यानि पुष्पाणि च फलानि च
दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम्
विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान्
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्
यत्र रामो भयं नात्र नास्ति तत्र पराभवः
स हि शूरो महाबाहुः पुत्रो दशरथस्य च
पुरा भवति नो दूरादनुगच्छाम राघवम्
पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः
स हि नाथो जनस्यास्य स गतिः स परायणम्
वयं परिचरिष्यामः सीतां यूयं तु राघवम्
इति पौरस्त्रियो भर्तॄन्दुःखार्तास्तत्तदब्रुवन्
युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति
सीता नारीजनस्यास्य योगक्षेमं करिष्यति
को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च
संप्रीयेतामनोज्ञेन वासेन हृतचेतसा
कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत्
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात्
कं सा परिहरेदन्यं कैकेयी कुलपांसनी
कैकेय्या न वयं राज्ये भृतका निवसेमहि
जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे
या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा
कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम्
न हि प्रव्रजिते रामे जीविष्यति महीपतिः
मृते दशरथे व्यक्तं विलोपस्तदनन्तरम्
ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः
राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत
मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः
भरते संनिषृष्टाः स्मः सौनिके पशवो यथा
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः
चुक्रुशुर्भृशसंतप्ता मृत्योरिव भयागमे
तथा स्त्रियो रामनिमित्तमातुरा; यथा सुते भ्रातरि वा विवासिते
विलप्य दीना रुरुदुर्विचेतसः; सुतैर्हि तासामधिको हि सोऽभवत्