Ayodhyakanda, Sarga 41, Verse 1
ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्
इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम्
वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः
अद्यायोध्या तु नगरी राजधानी पितुर्मम
सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः
भरतः खलु धर्मात्मा पितरं मातरं च मे
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः
नानुशोचामि पितरं मातरं चापि लक्ष्मण
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता
अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम्
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति
एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह
सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते
प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः
उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम्
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्
रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह
सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः
कथयामास सूताय रामस्य विविधान्गुणान्
जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्
गोकुलाकुलतीरायास्तमसाया विदूरतः
अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह
उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च
अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्
अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपि
वृक्षमूलेषु संसुप्तान्पश्य लक्ष्मण साम्प्रतम्
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने
अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्
यावदेव तु संसुप्तास्तावदेव वयं लघु
रथमारुह्य गच्छामः पन्थानमकुतोभयम्
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः
स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः
पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः
न तु खल्वात्मना योज्या दुःखेन पुरवासिनः
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम्
रोचते मे महाप्राज्ञ क्षिप्रमारुह्यतामिति
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत्
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः
उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे
मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः
यथा न विद्युः पौरा मां तथा कुरु समाहितः
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः
शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्
स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम्
प्रापद्यत महामार्गमभयं भयदर्शिनाम्
प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः
आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः