Ayodhyakanda, Sarga 40, Verse 1
अनुरक्ता महात्मानं रामं सत्यपरक्रमम्
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनुरक्ता महात्मानं रामं सत्यपरक्रमम्
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः
निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि
नैव ते संन्यवर्तन्त रामस्यानुगता रथम्
अयोध्यानिलयानां हि पुरुषाणां महायशाः
बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्
स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः
करिष्यति यथावद्वः प्रियाणि च हितानि च
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः
अनुरूपः स वो भर्ता भविष्यति भयापहः
स हि राजगुणैर्युक्तो युवराजः समीक्षितः
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्
न च तप्येद्यथा चासौ वनवासं गते मयि
महाराजस्तथा कार्यो मम प्रियचिकीर्षया
यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत्
तथा तथा प्रकृतयो रामं पतिमकामयन्
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह
चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम्
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा
वयःप्रकम्पशिरसो दूरादूचुरिदं वचः
वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम्
एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान्
अवेक्ष्य सहसा रामो रथादवततार ह
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः
संनिकृष्टपदन्यासो रामो वनपरायणः
द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः
गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः
ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति
द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः
पृष्ठतोऽनुप्रयातानि हंसानिव जलात्यये
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी
त्वत्कृते सा कृता वत्स वनवासानुसारिणी
हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्
वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः
त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम्
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः
शिरोभिर्निभृताचार महीपतनपांशुलैः
बहूनां वितता यज्ञा द्विजानां य इहागताः
तेषां समाप्तिरायत्ता तव वत्स निवर्तने
भक्तिमन्ति हि भूतानि जंगमाजंगमानि च
याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय
अनुगंतुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः
निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने
ददृशे तमसा तत्र वारयन्तीव राघवम्