Valmiki Ramayana

Ayodhyakanda, Sarga 39

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 1

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्

इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 2

तवार्ये सद्गुणैर्युक्तः पुत्रः स पुरुषोत्तमः

किं ते विलपितेनैवं कृपणं रुदितेन वा

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 3

यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः

साधु कुर्वन्महात्मानं पितरं सत्यवादिनाम्

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 4

शिष्टैराचरिते सम्यक्शश्वत्प्रेत्य फलोदये

रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 5

वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदानघः

दयावान्सर्वभूतेषु लाभस्तस्य महात्मनः

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 6

अरण्यवासे यद्दुःखं जानती वै सुखोचिता

अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 7

कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः

दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 8

व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्

न गात्रमंशुभिः सूर्यः संतापयितुमर्हति

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 9

शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः

राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 10

शयानमनघं रात्रौ पितेवाभिपरिष्वजन्

रश्मिभिः संस्पृशञ्शीतैश्चन्द्रमा ह्लादयिष्यति

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 11

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे

दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 12

पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः

क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 13

दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम्

समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 14

अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्

मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 15

पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः

कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति

Valmiki Ramayana

Ayodhyakanda, Sarga 39, Verse 16

निशम्य तल्लक्ष्मणमातृवाक्यं; रामस्य मातुर्नरदेवपत्न्याः

सद्यः शरीरे विननाश शोकः; शरद्गतो मेघ इवाल्पतोयः