Ayodhyakanda, Sarga 36, Verse 1
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ
आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ
आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः
यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्
क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति
कौसल्यायां महातेजा यथा मातरि वर्तते
तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्
परित्राता जनस्यास्य जगतः क्व नु गच्छति
अहो निश्चेतनो राजा जीवलोकस्य संप्रियम्
धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः
रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः
पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः
नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत
व्यसृजन्कवलान्नागा गावो वत्सान्न पाययन्
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि
दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः
विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्
आहारे वा विहारे वा न कश्चिदकरोन्मनः
बाष्पपर्याकुलमुखो राजमार्गगतो जनः
न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः
न वाति पवनः शीतो न शशी सौम्यदर्शनः
न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा
सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः
शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा
ततस्त्वयोध्या रहिता महात्मना; पुरंदरेणेव मही सपर्वता
चचाल घोरं भयभारपीडिता; सनागयोधाश्वगणा ननाद च