Ayodhyakanda, Sarga 35, Verse 1
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः
उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः
उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्
तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह
राघवः शोकसंमूढो जननीमभ्यवादयत्
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्
अथ मातुः सुमित्राया जग्राह चरणौ पुनः
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्
हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति
व्यसनी वा समृद्धो वा गतिरेष तवानघ
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्
अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्
विनीतो विनयज्ञश्च मातलिर्वासवं यथा
रथमारोह भद्रं ते राजपुत्र महायशः
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया
तान्युपक्रमितव्यानि यानि देव्यासि चोदितः
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा
आरुरोह वरारोहा कृत्वालंकारमात्मनः
तथैवायुधजातानि भ्रातृभ्यां कवचानि च
रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत्
सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत्
सुमन्त्रः संमतानश्वान्वायुवेगसमाञ्जवे
प्रयाते तु महारण्यं चिररात्राय राघवे
बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च
तत्समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम्
हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम्
ततः सबालवृद्धा सा पुरी परमपीडिता
राममेवाभिदुद्राव घर्मार्तः सलिलं यथा
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः
बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशदुःखिताः
संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः
मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति
आयसं हृदयं नूनं राममातुरसंशयम्
यद्देवगर्भप्रतिमे वनं याति न भिद्यते
कृतकृत्या हि वैदेही छायेवानुगता पतिम्
न जहाति रता धर्मे मेरुमर्कप्रभा यथा
अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम्
भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि
महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान्
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात्
शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः
यथा नादः करेणूनां बद्धे महति कुञ्जरे
पिता च राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौ
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्
हा रामेति जनाः केचिद्राममातेति चापरे
अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन्
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्
राजानं मातरं चैव ददर्शानुगतौ पथि
धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ
दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्