Ayodhyakanda, Sarga 34, Verse 1
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्
समीक्ष्य सह भार्याभी राजा विगतचेतनः
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्
समीक्ष्य सह भार्याभी राजा विगतचेतनः
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्
न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः
विललाप महाबाहू राममेवानुचिन्तयन्
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः
प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम्
न त्वेवानागते काले देहाच्च्यवति जीवितम्
कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते
योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्
विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्
एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह
रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह
संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः
नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः
प्रापयैनं महाभागमितो जनपदात्परम्
एवं मन्ये गुणवतां गुणानां फलमुच्यते
पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः
योजयित्वाययौ तत्र रथमश्वैरलंकृतम्
तं रथं राजपुत्राय सूतः कनकभूषितम्
आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः
राजा सत्वरमाहूय व्यापृतं वित्तसंचये
उवाच देशकालज्ञो निश्चितं सर्वतः शुचि
वासांसि च महार्हाणि भूषणानि वराणि च
वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः
प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत्
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः
व्यराजयत वैदेही वेश्म तत्सुविभूषिता
उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्
अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम्
असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः
भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम
तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्
कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्
अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे
न मामसज्जनेनार्या समानयितुमर्हति
धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा
नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः
नापतिः सुखमेधते या स्यादपि शतात्मजा
मितं ददाति हि पिता मितं माता मितं सुतः
अमितस्य हि दातारं भर्तारं का न पूजयेत्
साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा
आर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम्
सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम्
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्
तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम्
रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत्
अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम
क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति