Ayodhyakanda, Sarga 33, Verse 1
महामात्रवचः श्रुत्वा रामो दशरथं तदा
अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
महामात्रवचः श्रुत्वा रामो दशरथं तदा
अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्
त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः
किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते
सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे
खनित्रपिटके चोभे ममानयत गच्छतः
चतुर्दश वने वासं वर्षाणि वसतो मम
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्
उवाच परिधत्स्वेति जनौघे निरपत्रपा
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते
सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे
तापसाच्छादने चैव जग्राह पितुरग्रतः
अथात्मपरिधानार्थं सीता कौशेयवासिनी
समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव
सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः
गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः
कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना
तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज
तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्
तस्यां चीरं वसानायां नाथवत्यामनाथवत्
प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति
स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्
कैकेयि कुशचीरेण न सीता गन्तुमर्हति
ननु पर्याप्तमेतत्ते पापे रामविवासनम्
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः
एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्
अवाक्शिरसमासीनमिदं वचनमब्रवीत्
इयं धार्मिक कौसल्या मम माता यशस्विनी
वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते
मया विहीनां वरद प्रपन्नां शोकसागरम्
अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि
इमां महेन्द्रोपमजातगर्भिणीं; तथा विधातुं जनमीं ममार्हसि
यथा वनस्थे मयि शोककर्शिता; न जीवितं न्यस्य यमक्षयं व्रजेत्