Ayodhyakanda, Sarga 31, Verse 1
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह
आलोक्य तु महाप्राज्ञः परमाकुल चेतसम्
राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत्
अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्
स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः
सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते
गमिष्यति महारण्यं तं पश्य जगतीपते
वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः
स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्
सुमन्त्रानय मे दारान्ये केचिदिह मामकाः
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्
आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम्
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया
प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम्
अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः
आगतेषु च दारेषु समवेक्ष्य महीपतिः
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्
स सूतो राममादाय लक्ष्मणं मैथिलीं तदा
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः
स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्
उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः
तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः
तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः
विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि
हाहा रामेति सहसा भूषणध्वनिमूर्छितः
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्
अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम्
उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम्
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्
लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः
अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद
लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः
उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम्
अहं राघव कैकेय्या वरदानेन मोहितः
अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम्
एवमुक्तो नृपतिना रामो धर्मभृतां वरः
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः
भवान्वर्षसहस्राय पृथिव्या नृपते पतिः
अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम्
श्रेयसे वृद्धये तात पुनरागमनाय च
गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा
मातरं मां च संपश्यन्वसेमामद्य शर्वरीम्
तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि
अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम्
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्
प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति
अपक्रमणमेवातः सर्वकामैरहं वृणे
इयं सराष्ट्रा सजना धनधान्यसमाकुला
मया विसृष्टा वसुधा भरताय प्रदीयताम्