Ayodhyakanda, Sarga 30, Verse 1
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ
ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे
मालादामभिरासक्ते सीतया समलंकृते
ततः प्रासादहर्म्याणि विमानशिखराणि च
अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः
आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम्
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः
ऊचुर्बहुविधा वाचः शोकोपहतचेतसः
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्
तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः
ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः
नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि
तामद्य सीतां पश्यन्ति राजमार्गगता जनाः
अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम्
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते
न हि राजा प्रियं पुत्रं विवासयितुमर्हति
निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम्
किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः
राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्
पीडया पीडितं सर्वं जगदस्य जगत्पतेः
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः
गच्छन्तमनुगच्छामो येन गच्छति राघवः
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च
एकदुःखसुखा राममनुगच्छाम धार्मिकम्
समुद्धृतनिधानानि परिध्वस्ताजिराणि च
उपात्तधनधान्यानि हृतसाराणि सर्वशः
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्
वनं नगरमेवास्तु येन गच्छति राघवः
अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम्
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च
इत्येवं विविधा वाचो नानाजनसमीरिताः
शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम्
प्रतीक्षमाणोऽभिजनं तदार्त;मनार्तरूपः प्रहसन्निवाथ
जगाम रामः पितरं दिदृक्षुः; पितुर्निदेशं विधिवच्चिकीर्षुः
तत्पूर्वमैक्ष्वाकसुतो महात्मा; रामो गमिष्यन्वनमार्तरूपम्
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं; पितुर्महात्मा प्रतिहारणार्थम्
पितुर्निदेशेन तु धर्मवत्सलो; वनप्रवेशे कृतबुद्धिनिश्चयः
स राघवः प्रेक्ष्य सुमन्त्रमब्रवी;न्निवेदयस्वागमनं नृपाय मे