Ayodhyakanda, Sarga 22, Verse 1
सापनीय तमायासमुपस्पृश्य जलं शुचि
चकार माता रामस्य मङ्गलानि मनस्विनी
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
सापनीय तमायासमुपस्पृश्य जलं शुचि
चकार माता रामस्य मङ्गलानि मनस्विनी
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः
स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा
ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा
स्मृतिर्धृतिश्च धर्मश्च पान्तु त्वां पुत्र सर्वतः
स्कन्दश्च भगवान्देवः सोमश्च सबृहस्पतिः
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः
नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः
महावनानि चरतो मुनिवेषस्य धीमतः
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने
सरीसृपाश्च कीटाश्च मा भूवन्गहने तव
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक
नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः
मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः
सर्वसंपत्तयो राम स्वस्तिमान्गच्छ पुत्रक
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः
सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः
सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः
ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम्
इति माल्यैः सुरगणान्गन्धैश्चापि यशस्विनी
स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते
वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्
यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्
ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी
अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम्
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्
पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि
मयार्चिता देवगणाः शिवादयो; महर्षयो भूतमहासुरोरगाः
अभिप्रयातस्य वनं चिराय ते; हितानि काङ्क्षन्तु दिशश्च राघव
इतीव चाश्रुप्रतिपूर्णलोचना; समाप्य च स्वस्त्ययनं यथाविधि
प्रदक्षिणं चैव चकार राघवं; पुनः पुनश्चापि निपीड्य सस्वजे
तथा तु देव्या स कृतप्रदक्षिणो; निपीड्य मातुश्चरणौ पुनः पुनः
जगाम सीतानिलयं महायशाः; स राघवः प्रज्वलितः स्वया श्रिया