Ayodhyakanda, Sarga 19, Verse 1
अथ तं व्यथया दीनं सविशेषममर्षितम्
श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ तं व्यथया दीनं सविशेषममर्षितम्
श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्
उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान्
सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः
अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः
यस्या मदभिषेकार्थं मानसं परितप्यते
माता नः सा यथा न स्यात्सविशङ्का तथा कुरु
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे
मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन
मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः
परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम
तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते
सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्
अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण
अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा
सुतं भरतमव्यग्रमभिषेचयिता ततः
मयि चीराजिनधरे जटामण्डलधारिणि
गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम्
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्
तत्तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम्
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने
राज्यस्य च वितीर्णस्य पुनरेव निवर्तने
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने
यदि भावो न दैवोऽयं कृतान्तविहितो भवेत्
जानासि हि यथा सौम्य न मातृषु ममान्तरम्
भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः
उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये
कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा
ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः
कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान्
यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ
यस्य किंचित्तथाभूतं ननु दैवस्य कर्म तत्
व्याहतेऽप्यभिषेके मे परितापो न विद्यते
तस्मादपरितापः संस्त्वमप्यनुविधाय माम्
प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्
न लक्ष्मणास्मिन्मम राज्यविघ्ने; माता यवीयस्यतिशङ्कनीया
दैवाभिपन्ना हि वदन्त्यनिष्टं; जानासि दैवं च तथाप्रभावम्