Ayodhyakanda, Sarga 18, Verse 1
तथा तु विलपन्तीं तां कौसल्यां राममातरम्
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा तु विलपन्तीं तां कौसल्यां राममातरम्
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः
न रोचते ममाप्येतदार्ये यद्राघवो वनम्
त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः
नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः
नास्यापराधं पश्यामि नापि दोषं तथा विधम्
येन निर्वास्यते राष्ट्राद्वनवासाय राघवः
न तं पश्याम्यहं लोके परोक्षमपि यो नरः
अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्
अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात्
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः
पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्
यावदेव न जानाति कश्चिदर्थमिमं नरः
तावदेव मया सार्धमात्मस्थं कुरु शासनम्
मया पार्श्वे सधनुषा तव गुप्तस्य राघव
कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति
सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्
कस्य शक्तिः श्रियं दातुं भरतायारिशासन
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय
हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः
उवाच रामं कौसल्या रुदन्ती शोकलालसा
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया
यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्
विहाय शोकसंतप्तां गन्तुमर्हसि मामितः
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्
त्वां नाहमनुजानामि न गन्तव्यमितो वनम्
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा
त्वया सह मम श्रेयस्तृणानामपि भक्षणम्
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्
अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम्
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्
ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः
उवाच रामो धर्मात्मा वचनं धर्मसंहितम्
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा
गौर्हता जानता धर्मं कण्डुनापि विपश्चिता
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः
खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः
जामदग्न्येन रामेण रेणुका जननी स्वयम्
कृत्ता परशुनारण्ये पितुर्वचनकारिणा
न खल्वेतन्मयैकेन क्रियते पितृशासनम्
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते