Ayodhyakanda, Sarga 17, Verse 1
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः
जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः
जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी
सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्
उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून्
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः
ब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाभिसत्कृतान्
प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः
स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः
न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता
प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा
अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला
प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम्
ददर्श मातरं तत्र हावयन्तीं हुताशनम्
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्
अभिचक्राम संहृष्टा किशोरं वडवा यथा
तमुवाच दुराधर्षं राघवं सुतमात्मनः
कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्
प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव
अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति
मातरं राघवः किंचित्प्रसार्याञ्जलिमब्रवीत्
स स्वभावविनीतश्च गौरवाच्च तदानतः
देवि नूनं न जानीषे महद्भयमुपस्थितम्
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने
मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम्
भरताय महाराजो यौवराज्यं प्रयच्छति
मां पुनर्दण्डकारण्यं विवासयति तापसम्
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव
रामस्तूत्थापयामास मातरं गतचेतसम्
उपावृत्योत्थितां दीनां वडवामिव वाहिताम्
पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना
सा राघवमुपासीनमसुखार्ता सुखोचिता
उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे
यदि पुत्र न जायेथा मम शोकाय राघव
न स्म दुःखमतो भूयः पश्येयमहमप्रजा
एक एव हि वन्ध्यायाः शोको भवति मानवः
अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे
अपि पुत्रे विपश्येयमिति रामास्थितं मया
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्
अहं श्रोष्ये सपत्नीनामवराणां वरा सती
अतो दुःखतरं किं नु प्रमदानां भविष्यति
त्वयि संनिहितेऽप्येवमहमासं निराकृता
किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे
यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते
कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते
दश सप्त च वर्षाणि तव जातस्य राघव
अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः
दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया
स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा
ममैव नूनं मरणं न विद्यते; न चावकाशोऽस्ति यमक्षये मम
यदन्तकोऽद्यैव न मां जिहीर्षति; प्रसह्य सिंहो रुदतीं मृगीमिव
स्थिरं हि नूनं हृदयं ममायसं; न भिद्यते यद्भुवि नावदीर्यते
अनेन दुःखेन च देहमर्पितं; ध्रुवं ह्यकाले मरणं न विद्यते