Ayodhyakanda, Sarga 16, Verse 1
स ददर्शासने रामो निषण्णं पितरं शुभे
कैकेयीसहितं दीनं मुखेन परिशुष्यता
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
स ददर्शासने रामो निषण्णं पितरं शुभे
कैकेयीसहितं दीनं मुखेन परिशुष्यता
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः
रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्
इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्
निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्
ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्
उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा
अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्
बभूव संरब्धतरः समुद्र इव पर्वणि
चिन्तयामास च तदा रामः पितृहिते रतः
किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति
तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते
स दीन इव शोकार्तो विषण्णवदनद्युतिः
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्
कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता
कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय
विवर्णवदनो दीनो न हि मामभिभाषते
शारीरो मानसो वापि कच्चिदेनं न बाधते
संतापो वाभितापो वा दुर्लभं हि सदा सुखम्
कच्चिन्न किंचिद्भरते कुमारे प्रियदर्शने
शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्
अतोषयन्महाराजमकुर्वन्वा पितुर्वचः
मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे
यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः
कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते
कच्चित्ते परुषं किंचिदभिमानात्पिता मम
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः
किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे
अहं हि वचनाद्राज्ञः पतेयमपि पावके
भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च
तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते
तमार्जवसमायुक्तमनार्या सत्यवादिनम्
उवाच रामं कैकेयी वचनं भृशदारुणम्
पुरा देवासुरे युद्धे पित्रा ते मम राघव
रक्षितेन वरौ दत्तौ सशल्येन महारणे
तत्र मे याचितो राजा भरतस्याभिषेचनम्
गमनं दण्डकारण्ये तव चाद्यैव राघव
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि
आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु
स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम्
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः
अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस
भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्
नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम्
तदप्रियममित्रघ्नो वचनं मरणोपमम्
श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः
जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः
नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः
मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः
यास्यामि भव सुप्रीता वनं चीरजटाधरः