Ayodhyakanda, Sarga 15, Verse 1
स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः
अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः
अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्
स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्
राजमार्गं ययौ रामो मध्येनागरुधूपितम्
शोभमानमसंबाधं तं राजपथमुत्तमम्
संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि
आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान्
यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ
पितामहैराचरितं तथैव प्रपितामहैः
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय
यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः
ततः सुखतरं सर्वे रामे वत्स्याम राजनि
अलमद्य हि भुक्तेन परमार्थैरलं च नः
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्
अतो हि न प्रियतरं नान्यत्किंचिद्भविष्यति
यथाभिषेको रामस्य राज्येनामिततेजसः
एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः
आत्मसंपूजनीः शृण्वन्ययौ रामो महापथम्
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे
सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम्
चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः
स राजकुलमासाद्य महेन्द्रभवनोपमम्
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात्
ततः प्रविष्टे पितुरन्तिकं तदा; जनः स सर्वो मुदितो नृपात्मजे
प्रतीक्षते तस्य पुनः स्म निर्गमं; यथोदयं चन्द्रमसः सरित्पतिः