Ayodhyakanda, Sarga 13, Verse 1
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः
उपतस्थुरुपस्थानं सहराजपुरोहिताः
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः
उपतस्थुरुपस्थानं सहराजपुरोहिताः
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च
राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्
काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्
रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा
गङ्गायमुनयोः पुण्यात्संगमादाहृतं जलम्
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च
प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः
सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा
चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्
चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम्
पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः
प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते
अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः
वादित्राणि च सर्वाणि बन्दिनश्च तथापरे
इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम्
तथा जातीयामादाय राजपुत्राभिषेचनम्
ते राजवचनात्तत्र समवेता महीपतिम्
अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत्
न पश्यामश्च राजानमुदितश्च दिवाकरः
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः
इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन्
अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः
अयं पृच्छामि वचनात्सुखमायुष्मतामहम्
राज्ञः संप्रतिबुद्धस्य यच्चागमनकारणम्
इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्
गता भगवती रात्रिरहः शिवमुपस्थितम्
बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्
ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप
दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव
स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्
प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्
न चैव संप्रसुतोऽहमानयेदाशु राघवम्
इति राजा दशरथः सूतं तत्रान्वशात्पुनः
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्
निर्जगाम नृपावासान्मन्यमानः प्रियं महत्
प्रपन्नो राजमार्गं च पताका ध्वजशोभितम्
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः
ततो ददर्श रुचिरं कैलाससदृशप्रभम्
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्
महाकपाटपिहितं वितर्दिशतशोभितम्
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम्
दामभिर्वरमाल्यानां सुमहद्भिरलंकृतम्
स वाजियुक्तेन रथेन सारथि;र्नराकुलं राजकुलं विलोकयन्
ततः समासाद्य महाधनं मह;त्प्रहृष्टरोमा स बभूव सारथिः
तदद्रिकूटाचलमेघसंनिभं; महाविमानोत्तमवेश्मसंघवत्
अवार्यमाणः प्रविवेश सारथिः; प्रभूतरत्नं मकरो यथार्णवम्