Ayodhyakanda, Sarga 12, Verse 1
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि
विवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि
विवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत्
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः
सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः
प्रदाय पक्षिणो राजञ्जगाम गतिमुत्तमाम्
तथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः
सत्यानुरोधात्समये वेलां खां नातिवर्तते
समयं च ममार्येमं यदि त्वं न करिष्यसि
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया
नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा
उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत्
स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा
विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः
तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया
ततः पापसमाचारा कैकेयी पार्थिवं पुनः
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता
किमिदं भाषसे राजन्वाक्यं गररुजोपमम्
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्
निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि
स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः
राजा प्रदोचितोऽभीक्ष्णं कैकेयीमिदमब्रवीत्
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्
इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम्
स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति
शोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्
प्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमन्
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्
स मन्यमानः कल्याणं हृदयेन ननन्द च
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित्
इति सूतो मतिं कृत्वा हर्षेण महता पुनः
निर्जगाम महातेजा राघवस्य दिदृक्षया
ततः पुरस्तात्सहसा विनिर्गतो; महीपतीन्द्वारगतान्विलोकयन्
ददर्श पौरान्विविधान्महाधना;नुपस्थितान्द्वारमुपेत्य विष्ठितान्