Ayodhyakanda, Sarga 11, Verse 1
अतदर्हं महाराजं शयानमतथोचितम्
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
अतदर्हं महाराजं शयानमतथोचितम्
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्
अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी
पुनराकारयामास तमेव वरमङ्गना
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः
मम चेमं वरं कस्माद्विधारयितुमिच्छसि
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव
मृते मयि गते रामे वनं मनुजपुंगवे
हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम्
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति
अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे
तथा विलपतस्तस्य परिभ्रमितचेतसः
अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत
स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता
राज्ञो विलपमानस्य न व्यभासत शर्वरी
तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः
विललापार्तवद्दुःखं गगनासक्तलोचनः
न प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिः
अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्
नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत्
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः
प्रसादयामास पुनः कैकेयीं चेदमब्रवीत्
साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः
शून्येन खलु सुश्रोणि मयेदं समुदाहृतम्
कुरु साधु प्रसादं मे बाले सहृदया ह्यसि
विशुद्धभावस्य हि दुष्टभावा; ताम्रेक्षणस्याश्रुकलस्य राज्ञः
श्रुत्वा विचित्रं करुणं विलापं; भर्तुर्नृशंसा न चकार वाक्यम्
ततः स राजा पुनरेव मूर्छितः; प्रियामतुष्टां प्रतिकूलभाषिणीम्
समीक्ष्य पुत्रस्य विवासनं प्रति; क्षितौ विसंज्ञो निपपात दुःखितः