Ayodhyakanda, Sarga 9, Verse 1
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना
दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना
दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्
यौवराज्येन भरतं क्षिप्रमेवाभिषेचये
इदं त्विदानीं संपश्य केनोपायेन मन्थरे
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी
किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्
कथय त्वं ममोपायं केनोपायेन मन्थरे
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी
रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्
तव देवासुरे युद्धे सह राजर्षिभिः पतिः
अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्
दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रति
वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः
स शम्बर इति ख्यातः शतमायो महासुरः
ददौ शक्रस्य संग्रामं देवसंघैरनिर्जितः
तस्मिन्महति संग्रामे राजा दशरथस्तदा
अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः
तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने
स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ
गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना
अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा
तौ वरौ याच भर्तारं भरतस्याभिषेचनम्
प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः
त्वत्कृते च महाराजो विशेदपि हुताशनम्
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः
मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः
मणिमुक्तासुवर्णानि रत्नानि विविधानि च
दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः
यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात्
तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत्
यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः
व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च
भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति
भरतश्च हतामित्रस्तव राजा भविष्यति
येन कालेन रामश्च वनात्प्रत्यागमिष्यति
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति
संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान्
प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम्
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी
नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्
सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः
त्वं पद्ममिव वातेन संनता प्रियदर्शना