Ayodhyakanda, Sarga 8, Verse 1
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत्
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत्
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता
हर्षं किमिदमस्थाने कृतवत्यसि बालिशे
शोकसागरमध्यस्थमात्मानं नावबुध्यसे
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्
उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः
अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः
रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह
धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्शुचिः
रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति
भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति
संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्
भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्
पितृपैतामहं राज्यमवाप्स्यति नरर्षभः
सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे
भविष्यति च कल्याणे किमर्थं परितप्यसे
कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम्
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता
दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे
भविता राघवो राजा राघवस्य च यः सुतः
राजवंशात्तु भरतः कैकेयि परिहास्यते
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि
स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः
स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति
अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले
साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे
सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्
देशान्तरं नाययिता लोकान्तरमथापि वा
बाल एव हि मातुल्यं भरतो नायितस्त्वया
संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः
अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्
तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति
रामस्तु भरते पापं कुर्यादिति न संशयः
तस्माद्राजगृहादेव वनं गच्छतु ते सुतः
एतद्धि रोचते मह्यं भृशं चापि हितं तव
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति
यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति
स ते सुखोचितो बालो रामस्य सहजो रिपुः
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्
प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया
राममाता सपत्नी ते कथं वैरं न यातयेत्
यदा हि रामः पृथिवीमवाप्स्यति; ध्रुवं प्रनष्टो भरतो भविष्यति
अतो हि संचिन्तय राज्यमात्मजे; परस्य चाद्यैव विवासकारणम्