Valmiki Ramayana

Ayodhyakanda, Sarga 6

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 1

गते पुरोहिते रामः स्नातो नियतमानसः

सह पत्न्या विशालाक्ष्या नारायणमुपागमत्

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 2

प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा

महते दैवतायाज्यं जुहाव ज्वलितेऽनले

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 3

शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्

ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 4

वाग्यतः सह वैदेह्या भूत्वा नियतमानसः

श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 5

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः

अलंकारविधिं कृत्स्नं कारयामास वेश्मनः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 6

तत्र शृण्वन्सुखा वाचः सूतमागधबन्दिनाम्

पूर्वां संध्यामुपासीनो जजाप यतमानसः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 7

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्

विमलक्षौमसंवीतो वाचयामास च द्विजान्

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 8

तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा

अयोध्यां पूरयामास तूर्यघोषानुनादितः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 9

कृतोपवासं तु तदा वैदेह्या सह राघवम्

अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 10

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्

प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 11

सिताभ्रशिखराभेषु देवतायतनेषु च

चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 12

नानापण्यसमृद्धेषु वणिजामापणेषु च

कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 13

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च

ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 14

नटनर्तकसंघानां गायकानां च गायताम्

मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 15

रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः

रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 16

बाला अपि क्रीडमाना गृहद्वारेषु संघशः

रामाभिषेकसंयुक्ताश्चक्रुरेव मिथः कथाः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 17

कृतपुष्पोपहारश्च धूपगन्धाधिवासितः

राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 18

प्रकाशीकरणार्थं च निशागमनशङ्कया

दीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 19

अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः

आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 20

समेत्य संघशः सर्वे चत्वरेषु सभासु च

कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 21

अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः

ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 22

सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः

चिराय भविता गोप्ता दृष्टलोकपरावरः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 23

अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः

यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 24

चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः

यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 25

एवंविधं कथयतां पौराणां शुश्रुवुस्तदा

दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 26

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्

रामस्य पूरयामासुः पुरीं जानपदा जनाः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 27

जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः

पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः

Valmiki Ramayana

Ayodhyakanda, Sarga 6, Verse 28

ततस्तदिन्द्रक्षयसंनिभं पुरं; दिदृक्षुभिर्जानपदैरुपागतैः

समन्ततः सस्वनमाकुलं बभौ; समुद्रयादोभिरिवार्णवोदकम्