Ayodhyakanda, Sarga 5, Verse 1
संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्
तथेति च स राजानमुक्त्वा वेदविदां वरः
स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम्
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः
तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः
मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात्
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः
ततोऽवतारयामास परिगृह्य रथात्स्वयम्
स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च
प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि
उपवासं भवानद्य करोतु सह सीतया
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः
पिता दशरथः प्रीत्या ययातिं नहुषो यथा
इत्युक्त्वा स तदा राममुपवासं यतव्रतम्
मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्
सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः
हृष्टनारी नरयुतं रामवेश्म तदा बभौ
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः
स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः
बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः
जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा
बभूव राजमार्गस्य सागरस्येव निस्वनः
सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी
आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा
तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः
रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम्
एवं तं जनसंबाधं राजमार्गं पुरोहितः
व्यूहन्निव जनौघं तं शनै राज कुलं ययौ
सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः
समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः
पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत्
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव
तदग्र्यवेषप्रमदाजनाकुलं; महेन्द्रवेश्मप्रतिमं निवेशनम्
व्यदीपयंश्चारु विवेश पार्थिवः; शशीव तारागणसंकुलं नभः