Ayodhyakanda, Sarga 4, Verse 1
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्
श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः
अथान्तर्गृहमाविश्य राजा दशरथस्तदा
सूतमाज्ञापयामास रामं पुनरिहानय
प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ
रामस्य भवनं शीघ्रं राममानयितुं पुनः
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्
प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्
यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः
तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा
इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः
प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम्
प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः
ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः
प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत्
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः
अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि
दत्तमिष्टमधीतं च मया पुरुषसत्तम
अनुभूतानि चेष्टानि मया वीर सुखानि च
देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः
न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात्
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक
अपि चाद्याशुभान्राम स्वप्नान्पश्यामि दारुणान्
सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः
अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः
प्रायेण हि निमित्तानामीदृशानां समुद्भवे
राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति
तद्यावदेव मे चेतो न विमुह्यति राघव
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः
अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम्
श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः
तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्
श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप
तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि
विप्रोषितश्च भरतो यावदेव पुरादितः
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः
किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः
सतां च धर्मनित्यानां कृतशोभि च राघव
इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने
व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम्
प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने
तस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्
वाग्यतां देवतागारे ददर्श याचतीं श्रियम्