Ayodhyakanda, Sarga 3, Verse 1
तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ
इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत्
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ
ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत्
रामः कृतात्मा भवता शीघ्रमानीयतामिति
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्
रामं तत्रानयां चक्रे रथेन रथिनां वरम्
अथ तत्र समासीनास्तदा दशरथं नृपम्
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः
म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः
उपासां चक्रिरे सर्वे तं देवा इव वासवम्
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः
प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्
चन्द्रकान्ताननं राममतीव प्रियदर्शनम्
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः
न ततर्प समायान्तं पश्यमानो नराधिपः
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्
स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके
नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्
तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम्
दिदेश राजा रुचिरं रामाय परमासनम्
तदासनवरं प्राप्य व्यदीपयत राघवः
स्वयेव प्रभया मेरुमुदये विमलो रविः
तेन विभ्राजिता तत्र सा सभाभिव्यरोचत
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्
अलंकृतमिवात्मानमादर्शतलसंस्थितम्
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः
उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः
त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा
अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय
तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्
तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः
तस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा