Ayodhyakanda, Sarga 2, Verse 1
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः
हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः
हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः
दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना
स्वरेण महता राजा जीग्मूत इव नादयन्
सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम्
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता
प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्
पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः
जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये
राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते
संनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान्
अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः
पुरंदरसमो वीर्ये रामः परपुरंजयः
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्
यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम्
अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्
अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम्
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम्
वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव
स रामं युवराजानमभिषिञ्चस्व पार्थिवम्
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्
कथं नु मयि धर्मेण पृथिवीमनुशासति
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्
ते तमूचुर्महात्मानं पौरजानपदैः सह
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः
इक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते
रामः सत्पुरुषो लोके सत्यधर्मपरायणः
धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः
क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः
प्रियवादी च भूतानां सत्यवादी च राघवः
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता
तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते
संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा
पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च
निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्
शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः
उत्सवेषु च सर्वेषु पितेव परितुष्यति
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः
बलमारोग्यमायुश्च रामस्य विदितात्मनः
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा